श्री प्रज्ञाविवर्धन स्तोत्रं
अस्य श्री प्रज्ञाविवर्धन स्तोत्र मंत्रस्य
सनत्कुमार ऋषी: स्वामी कार्तिकेयो देवता
अनुष्टुप छंद: मम सकल विद्यासिध्यर्थं जपे विनियोग:
श्री स्कंद उवाच
♪
योगीश्वरो महासेन कार्तिकेयोग्निनंदन
स्कंद:कुमार सेनानी स्वामी शंकर संभव:
(योगीश्वरो महासेन कार्तिकेयोग्निनंदन)
(स्कंद:कुमार सेनानी स्वामी शंकर संभव:)
गांगेयस्ताम्रचुडश्च ब्रम्हचारी शिखीध्वज
तारकारीरुमापुत्र क्रौञ्चारिश्च षडाननः
(गांगेयस्ताम्रचुडश्च ब्रम्हचारी शिखीध्वज)
(तारकारीरुमापुत्र क्रौञ्चारिश्च षडाननः)
♪
शब्दब्रम्ह समुद्रश्च सिद्ध सारस्वतो गुहः
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः
(शब्दब्रम्ह समुद्रश्च सिद्ध सारस्वतो गुहः)
(सनत्कुमारो भगवान् भोगमोक्षफलप्रदः)
♪
शरजन्मा गणाधीश पूर्वजो मुक्तीमार्गक्रूत्
सर्वागम प्रणेता च वांछितार्थ प्रदर्शनः
(शरजन्मा गणाधीश पूर्वजो मुक्तीमार्गक्रूत्)
(सर्वागम प्रणेता च वांछितार्थ प्रदर्शनः)
अष्टाविंशति नामानि मदीयानिती यः पठेत्
प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतीर्भवेत्
(अष्टाविंशति नामानि मदीयानिती यः पठेत्)
(प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतीर्भवेत्)
♪
महामंत्रमया निती ममनामानु कीर्तनम्
महाप्रज्ञामवाप्नोति नात्र कार्याविचारणा
(महामंत्रमया निती ममनामानु कीर्तनम्)
(महाप्रज्ञामवाप्नोति नात्र कार्याविचारणा)
इति श्री रूद्रयामले प्रज्ञाविवर्धनाख्याम्
श्रीमद् कार्तिकेय स्तोत्रम् संपूर्णम्
Поcмотреть все песни артиста
Другие альбомы исполнителя