Kishore Kumar Hits

D.V. Ramani - Surya Ashtakam текст песни

Исполнитель: D.V. Ramani

альбом: Adhithya Hrudayam


आदिदेव नमस्तुभ्यं
प्रसीद मम भास्कर
दिवाकर नमस्तुभ्यं
प्रभाकर नमोऽस्तु ते
सप्ताश्व रथमारूढं
प्रचण्डं कश्यपात्मजम्
श्वेत पद्माधरं देवं
तं सूर्यं प्रणमाम्यहम्
लोहितं रथमारूढं
सर्वलोकपितामहम्
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्
त्रैगुण्यश्च महाशूरं
ब्रह्माविष्णु महेश्वरम्
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्
बृह्मितं तेजःपुञ्जञ्च
वायुराकाशमेव च
प्रभुत्वं सर्वलोकानां
तं सूर्यं प्रणमाम्यहम्
बन्धूकपुष्पसङ्काशं
हारकुण्डलभूषितम्
एकचक्रधरं देवं
तं सूर्यं प्रणमाम्यहम्
तं सूर्यं लोककर्तारं
महा तेजः प्रदीपनम् ।
महापाप हरं देवं
तं सूर्यं प्रणमाम्यहम्
तं सूर्यं जगतां नाथं
ज्ञानप्रकाशमोक्षदम्
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्
सूर्याष्टकं पठेन्नित्यं
ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं
दारिद्रो धनवान् भवेत्
अमिषं मधुपानं च
यः करोति रवेर्दिने
सप्तजन्मभवेत् रोगि
जन्म जन्म दरिद्रत
स्त्रीतैलमधुमांसानि
ये त्यजन्ति रवेर्दिने
न व्याधि शोक दारिद्र्यं
सूर्य लोकं च गच्छति
स्त्रीतैलमधुमांसानि
ये त्यजन्ति रवेर्दिने
न व्याधि शोक दारिद्र्यं
सूर्य लोकं च गच्छति

Поcмотреть все песни артиста

Другие альбомы исполнителя

Похожие исполнители