मनोबुद्ध्यहङ्कारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहम् न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशः । न वाक्पाणिपादं न चोपस्थपायुः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥२॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहम् न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥३॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहम् न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदाः न यज्ञः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहम् न मे मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे नैव माता न जन्म । न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥५॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहम् अहं निर्विकल्पॊ निराकाररूपॊ विभुत्वाञ्च सर्वत्र सर्वेद्रियाणाम् । न चासङ्गतं नैव मुक्तिर्न मेयः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥६॥ चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहम्